(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.63. अध्यायः 063
Mahabharata - Adi Parva - Chapter Topics
पूरुवंशकथनम्॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text

वैशम्पायन उवाच। 1-63-0x(300)(2501)
पूरोर्वंशमहं धन्यं राज्ञाममिततेजसाम्।
प्रवक्ष्यामि पितॄणां ते तेषां नामानि मे शृमु॥ 1-63-1(2502)
अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः।
तस्मान्मरीचिः संजज्ञे दक्षश्चैव प्रजापतिः॥ 1-63-2(2503)
अङ्गुष्ठाद्दक्षमसृजच्चक्षुर्भ्यां च मरीचिनम्।
मरीचेः कश्यपः पुत्रो दक्षस्य दुहिताऽऽदितिः॥ 1-63-3(2504)
अदित्यां कश्यपाद्विवस्थान्।
विवस्वतो मनुर्मनोरिला॥ 1-63-4(2505)
इलायाः पुरूरवाः।
पुरूरवस आयुः।
आयुषो नहुषः।
नहुषस्य ययातिः॥ 1-63-5(2506)
ययातेर्द्वे भार्ये बभूवतुः।
उशनसो दुहिता देवयानी वृषपर्वणश्च दुहिता शर्मिष्ठा नाम॥ 1-63-6(2507)
तत्रानुवंशो भवति।
यदुं च तुर्वसुं चैव देवयानी व्यजायत।
द्रुह्यं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी॥ 1-63-7(2508)
तत्र यदोर्यादवाः।
पूरोः पौरवाः।
पूरोर्भार्या कौसल्या बभूव।
तस्यामस्य जज्ञे जनमेजयः॥ 1-63-8(2509)
स त्रीन्हयमेधानाजहार।
विश्वजिता चेष्ट्वा वनं प्रविवेश॥ 1-63-9(2510)
जनमेजयस्तु सुनन्दां नामोपयेमे मागधीं।
तस्यामस्य जज्ञे प्राचीन्वान्॥ 1-63-10(2511)
यः प्राचीं दिशं जिगाय।
यावत्सूर्यादयात् तत्तस्य प्राचीनत्वम्॥ 1-63-11(2512)
प्राचीन्वांस्तु खल्वाश्मकीमुपयेमे यादवीम्।
तस्यामस्य जज्ञे शस्यातिः॥ 1-63-12(2513)
शय्यातिस्तु त्रिशङ्कोर्दुहितरं वराङ्गीं नामोपयेमे तस्यामस्य जज्ञेऽहंयातिः॥ 1-63-13(2514)
अहंयातिस्तु खलु कृतवीर्यदुहितरं भानुमतीं नामोपयेमे।
तस्यामस्य जज्ञे सार्वभौमः॥ 1-63-14(2515)
सार्वभौमस्तु खलु जित्वाऽऽजहार कैकयीं सुन्दरां नाम तामुपयेमे।
तस्यामस्य जज्ञे जयत्सेनः॥ 1-63-15(2516)
जयत्सेनस्तु खलु वैदर्भीमुपयेमे सुश्रवां नाम।
तस्यामस्य जज्ञेऽपराचीनः॥ 1-63-16(2517)
अपराचीनस्तु खलु वैदर्भीमपरामुपयेमे मर्यादां नाम।
तस्यामस्य जज्ञेऽरिहः॥ 1-63-17(2518)
अरिहः खल्वाङ्गीमुपेयेमे।
तस्यामस्य जज्ञे महाभौमः॥ 1-63-18(2519)
महाभौमस्तु खलु प्रसेनजिद्दुहितरमुपयेमे सुयज्ञां नाम।
तस्यामस्य जज्ञे अयुतानायी॥ 1-63-19(2520)
यः पुरुषमेधे पुरुषाणामयुतमानयत्तत्तस्यायुतानायित्वम्॥ 1-63-20(2521)
अयुतानायी तु खलु पृथुश्रवसो दुहितरमुपयेमे भासां नाम।
तस्यामस्य जज्ञेऽक्रोधनः॥ 1-63-21(2522)
अक्रोधनस्तु खलु कालिङ्गीं कण्डूं नामोपयेमे।
तस्यामस्य जज्ञे देवातिथिः॥ 1-63-22(2523)
देवातिथिस्तु खलु वैदर्भीमुपयेमे मर्यादां नाम तस्यामस्य जज्ञे ऋचः॥ 1-63-23(2524)
ऋचस्तु खलु वामदेव्यामङ्गराजकन्यायामृक्षं पुत्रमजीजनत्॥ 1-63-24(2525)
ऋक्षस्तु खलु तक्षकदुहितरं ज्वलन्तीं नामोपयेमे।
तस्यामन्त्यनारमुत्पादयामास॥ 1-63-25(2526)
अन्त्यनारस्तु खलु सरस्वत्यां द्वादशवार्षिकं सत्रमाजहार।
तमुदवसाने सरस्वत्यभिगम्य भर्तारं वरयामास॥ 1-63-26(2527)
तस्यां पुत्रं जनयामास त्रस्नुं नाम।
अत्रानुवंशो भवति॥ 1-63-27(2528)
त्रस्नुं सरस्वती पुत्रमन्त्यनारादजीजनत्।
इलिलं जनयामास कालिन्द्यांत्रस्नुरात्मजम्॥ 1-63-28(2529)
इलिलस्तु रथन्तर्यां दुष्यन्तादीन्पञ्च पुत्रानजीजनत्॥ 1-63-29(2530)
दुष्यन्तस्तु लाक्षीं नाम भागीरथीमुपयेमे तस्यामस्य जज्ञे जनमेजयः॥ 1-63-30(2531)
सएव दुष्यन्तो विश्वामित्रदुहितरं शकुन्तलां नामोपयेमे।
तस्यामस्य जज्ञे भरतः॥ 1-63-31(2532)
तत्रेमौ श्लोकौ भवतः।
माता भस्त्रा पितुः पुत्रो यस्माज्जातः स एव सः।
भरस्व पुत्रं दौष्यन्तिं सत्यमाह शकुन्तला॥ 1-63-32(2533)
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात्।
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला॥ 1-63-33(2534)
ततोऽस्य भरतत्वम्।
भरतस्तु खलु काशेयीं सार्वसेनीमुपयेमे सुनन्दां नाम।
तस्यामस्य जज्ञे भुमन्युः॥ 1-63-34(2535)
भुमन्युस्तु खलु दाशार्हीमुपयेमे सुवर्णां नाम।
तस्यामस्य जज्ञे सुहोत्रः॥ 1-63-35(2536)
सुहोत्रस्तु खल्वैक्ष्वाकीमुपयेमे जयन्तीं नाम।
तस्यामस्य जज्ञे हस्ती।
य इदं पुरं निर्मापयामास॥ 1-63-36(2537)
तस्माद्धास्तिनपुरत्वम्।
हस्ती खलु त्रैगर्तीमुपयेमे यशोदां नाम तस्यामस्य जज्ञे विकुञ्जतः॥ 1-63-37(2538)
विकुञ्जनस्तु खलु दाशार्हीमुपयेमे सुन्दरां नाम।
तस्यामस्य जज्ञेऽजमीढः॥ 1-63-38(2539)
अजमीढस्य तु चतुर्विंशतिपुत्रशतं बभूव।
कैकय्यां नागायां गान्धार्यां विमलायामृक्षायामिति॥ 1-63-39(2540)
पृथग्वंशकर्तारो नृपतयः।
तत्र अजमीढादृक्षायां संवरणो जज्ञे स वंशकरः॥ 1-63-40(2541)
सवरणस्तु वैवस्वतीं तपतीं नामोपयेमे।
तस्यामस्य जज्ञे कुरुः॥ 1-63-41(2542)
कुरुस्तु खलु दाशार्हीमुपयेमे शुभाङ्गीं नाम।
तस्यामस्य जज्ञे विदूरथः॥ 1-63-42(2543)
विदूरथस्तु खलु मागधीमुपयेमे संप्रियां नाम।
तस्यामस्य जज्ञेऽनश्वान्॥ 1-63-43(2544)
अनश्वांस्तु खलु मागधीमुपयेमेऽमृतां नाम।
तस्यामस्य जज्ञे परिक्षित्॥ 1-63-44(2545)
परिक्षित्खलु बाहुकामुपयेमे सुवेषां नाम।
तस्यामस्य जज्ञे भीमसेनः॥ 1-63-45(2546)
भीमसेनस्तु खलु कैकयीमुपयेमे सुकुमारीं नाम।
तस्यामस्य जज्ञे परिश्रवाः॥ 1-63-46(2547)
यमाहुः प्रतीप इति।
प्रतीपस्तु खलु शैब्यामुपयेमे सुनन्दीं नाम।
तस्यां त्रीन्पुत्रानुत्पादयामास देवापिं शन्तनुं बाह्लीकं चेति॥ 1-63-47(2548)
देवापिस्तु खलु बाल एवारण्यं प्रविवेश।
शन्तनुस्तु महीपालोऽभवत्॥ 1-63-48(2549)
तत्र श्लोको भवति।
यं यं कराभ्यां स्पृशति जीर्णं स सुखमश्नुते।
पुनर्युवा च भवति तस्मात्तं शन्तनुं विदुः॥ 1-63-49(2550)
तदस्य शन्तनुत्वं।
शन्तनुस्तु खलु गङ्गां भागीरथीमुपयेमे तस्यामस्य जज्ञे देवव्रतः।
यमाहुर्भीष्म इति॥ 1-63-50(2551)
भीष्मस्तु खलु पितुः प्रियचिकीर्षया सत्यवतीमानयामास मातरं।
यामाहुः कालीति॥ 1-63-51(2552)
तस्यां पूर्वं पुराशरात्कन्यागर्भो द्वैपायनः।
तस्यामेव शन्तनोर्द्वौ पुत्रौ बभूवतुः चित्राङ्गदो विचित्रवीर्यश्च॥ 1-63-52(2553)
चित्राङ्गदस्तु प्राप्तराज्य एव गन्धर्वेण निहृतः।
ततो विचित्रवीर्यो राजा बभूव॥ 1-63-53(2554)
विचित्रवीर्यस्तु खलुकाशिराजस्य सुते अम्बिकाम्बालिके उदवहत्।
विचित्रवीर्योऽनुत्पन्नापत्य एव विदेहत्वं प्राप्तः॥ 1-63-54(2555)
ततः सत्यवती चिन्तयामास कथं नु खलु शन्तनोः पिण्डविच्छेदो न स्यादिति॥ 1-63-55(2556)
साथ द्वैपायनं चिन्तयामास सोऽग्रतः स्थितः किं करवाणीति।
तं सत्यवत्युवाच भ्राता तेऽनपत्य एव स्वर्गतः तस्यार्थेऽपत्यमुत्पादयेति॥ 1-63-56(2557)
स परमित्युवाच स तत्र त्रीन्पुत्रानुत्पादयामास धृतराष्ट्रं पाण्डुं विदुरं चेति॥ 1-63-57(2558)
धृतराष्ट्रात्पुत्रशतं बभूव गान्धार्यां वरदानाद्द्वैपायनस्य तेषां च धार्तराष्ट्राणां चत्वारः प्रधानाः दुर्योधनो दुश्शासनो विकर्णश्चित्रसेनश्चेति॥ 1-63-58(2559)
पाण्डोस्तु कुन्ती माद्रीति स्त्रीरत्ने बभूवतुः।
स मृगयां चरन्मैथुनगतमृषिं मृगचारिणं बाणेन जघान॥ 1-63-59(2560)
स बाणविद्ध उवाच पाण्डुम्।
अत्र श्लोको भवति॥ 1-63-60(2561)
योऽकृतार्थं हि मां ग्रूर बाणेनाघ्ना मृगव्रतम्।
त्वामप्येतादृशो भावः क्षिप्रमेवागमिष्यति॥ 1-63-61(2562)
इति मृगव्रतचारिणा ऋषिणा शप्तः।
स विषण्णरूपः पाण्डुस्तं शापं परिहरन्नोपसर्पति भार्ये॥ 1-63-62(2563)
कदाचित्स आह।
स्वचापल्यादिदं प्राप्तवानहम्।
पुराणेषु पठ्यमानं शृणोमि नानपत्यस्य लोकाः सन्तीति॥ 1-63-63(2564)
सा त्वं मदर्थे पुत्रानुत्पादयेति कुन्तीमुवाच॥ 1-63-64(2565)
सा कुन्ती पुत्रानुत्पादयामास धर्माद्युधिष्ठिरं मारुताद्भीमसेनमिन्द्रादर्जुनमिति।
स हृष्टरूपः पाण्डुरुवाच।
इयं ते सपत्नी भवति माद्र्यनपत्या व्रीडिता साध्वी अस्यामपत्यमुत्पाद्यतामिति॥ 1-63-65(2566)
सा कुन्ती तस्यै माद्र्यै तथेति व्रतमादिदेश।
ततस्तस्यां नकुलसहदेवौ यमावश्विभ्यां जज्ञाते॥ 1-63-66(2567)
माद्रीं तु खलु स्वलङ्कृतां दृष्ट्वा पाण्डुर्भावं चक्रे।
स तां प्राप्यैव विदेहत्वं प्राप्तः॥ 1-63-67(2568)
ततस्तेन सह चितामन्वारुरोह माद्री।
कुन्तीं चोवाच यमयोरार्ययाऽप्रमत्तया भवितव्यमिति॥ 1-63-68(2569)
ततः पञ्चपाण्डवान्सह कुन्त्या हास्तिनपुरं नयन्ति स्म तपस्विनः॥ 1-63-69(2570)
तत्र भीष्माय धृतराष्ट्रविदुरयोः पाण्डोः स्वर्गगमनं याथातथ्यं निवेदयन्तिस्म तपस्विनः॥ 1-63-70(2571)
पाण्डवान्सह कुन्त्या जतुगृहे दाहयितुकामो धृतराष्ट्रात्मजोऽभूत्॥ 1-63-71(2572)
तांश्च विदुरो मोक्षयामास।
ततो भीमो हिडिम्बं हत्वा पुत्रमुत्पादयामास हिडिम्बायां घटोत्कचं नाम॥ 1-63-72(2573)
ततश्चैकचक्रां जग्मुः कुशलिनः।
ततः पाञ्चालविषयं गत्वा स्वयंवरे द्रौपदीं लब्ध्वाऽर्धराज्यं प्राप्येन्द्रप्रस्थनिवासिनस्तस्यां पुत्रानुत्पादयामासुर्द्रौपद्याम्॥ 1-63-73(2574)
प्रतिविन्ध्यां युधिष्ठिरः।
सुतसोमं वृकोदरः।
श्रुतकीर्तिमर्जुनः।
शतानीकं नकुलः।
श्रुतसेनं सहदेव इति॥ 1-63-74(2575)
शैव्यस्य कन्यां देवकीं नामोपयेमे युधिष्ठिरः।
तस्यां पुत्रं जनयामास यौधेयं नाम॥ 1-63-75(2576)
भीमसेनस्तु वाराणस्यां काशिराजकन्यां जलन्धरां नामोपयेमे स्वयंवरस्थां।
तस्यामस्य जज्ञे शर्वत्रातः॥ 1-63-76(2577)
अर्जुनस्तु खलु द्वारवतीं गत्वा भगवतो वासुदेवस्य भगिनीं सुभद्रां नामोदवहद्भार्यां।
तस्यामभिमन्युं नाम पुत्रं जनयामास॥ 1-63-77(2578)
नकुलस्तु खलु चैद्यां रेणुमतीं नामोदवहत्।
तस्यां पुत्रं जनयामास निरमित्रं नाम॥ 1-63-78(2579)
सहदेवस्तु खलु माद्रीमेव स्वयंवरे विजयां नामोदवहद्भार्याम्।
तस्यां पुत्रं जनयामास सुहोत्रं नाम॥ 1-63-79(2580)
भीमसेनश्च पूर्वमेव हिडिम्बायां राक्षस्यां पुत्रमुत्पादयामास घटोत्कचं नाम।
अर्जुनस्तु नागकन्यायामुलूप्यामिरावन्तं नाम पुत्रं जनयामास॥ 1-63-80(2581)
ततो मणलूरुपतिकन्यायां चित्राङ्गदायामर्जुनः पुत्रमुत्पादयामास बभ्रुवाहनं नाम।
एते त्रयोदश पुत्राः पाण्डवानाम्॥ 1-63-81(2582)
विराटस्य दुहितरमुत्तरां नामाभिमन्युरुपेयेमे।
तस्यामस्य परासुर्गर्भोऽजायत॥ 1-63-82(2583)
तमुत्सङ्गे प्रतिजग्राह पृथा नियोगात्पुरुषोत्तमस्य।
षाण्मासिकं गर्भमहं जीवयामि पादस्पर्शादिति वासुदेव उवाच॥ 1-63-83(2584)
अहं जीवयामि कुमारमनन्तवीर्यं जात एवायमजायत।
अभिमन्योः सत्येन चेयं पृथिवी धारयत्विति वासुदेवस्य पादस्पर्शात्सजीवोऽजायत।
नाम तस्याकरोत्सुभद्रा॥ 1-63-84(2585)
परिक्षीणे कुले जात उत्तरायां परंतपः।
परिक्षिदभवत्तस्मात्सौभद्रात्तु यशस्विनः॥ 1-63-85(2586)
परीक्षित्तु खलु भद्रवतीं नामोपयेमे।
तस्यां तत्र भवाञ्जनमेजयः॥ 1-63-86(2587)
जनमेजयात्तु भवतः खलु वपुष्टमायां पुत्रौ द्वौ शतानीकः शङ्कुकर्णश्च॥ 1-63-87(2588)
शतानीकस्तु खलु वैदेहीमुपयेमे।
तस्यामस्य जज्ञे पुत्रोऽश्वमेधदत्तः॥ 1-63-88(2589)
इत्येष पूरोर्वंशस्तु पाण्डवानां च कीर्तितः।
पूरोर्वंशमिमं श्रुत्वा सर्वपापैः प्रमुच्यते॥ ॥ 1-63-89(2590)

इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि त्रिषष्टितमोऽध्यायः॥ 63 ॥

Mahabharata - Adi Parva - Chapter Footnotes
1-63-32 भस्त्रा चर्मकोशः तत्र निहितं बीजं यथा तदीयं न भवति एवं मातापि भस्त्रेव। येन हेतुना यो जातः स एव सः। कार्यस्य कारणानन्यत्वात्॥ 1-63-33 पुत्रः रेतोधाः रेतोधातारं पितरं उन्नयति ऊर्ध्वं नयति। यमक्षयात् नरकात्॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.